अधोरेखाङ्कितेभ्य: पदेभ्य: प्रश्ननिर्माणं कुरूत −
(क) हिमालय: उत्तरस्यां दिशि वर्तंते।
(ख) पृथिव्या: मानदण्ड: हिमालय: अस्ति।
(ग) कुमारसम्भवमहाकाव्यं कालिदासेन विरचितम्।
(घ) अस्मिन् पाठे कवि: हिमालयस्य वर्णनं करोति।
(क) हिमालय: कस्यां दिशि वर्तते?
(ख) पृथिव्या: मानदण्ड: क: अस्ति?
(ग) कुमारसम्भवमहाकाव्यं केन विरचितम्?
(घ) अस्मिन् पाठे कवि: कस्य वर्णनं करोति?