(क) चटकाया: विलापं श्रुत्वा काष्ठकूट: तां दु:खेन अपृच्छत् "भद्रे किमर्थ विलपसि?"
(ख) चटकाया: काष्ठकूटस्य च वार्तां श्रुत्वा मक्षिकाऽवदत् - "ममापि मित्रं मण्डुक: मेघनाद: अस्ति। शीघ्रं तमुपेत्य यथोचितं करिष्याम:।"
(ग) मेघनाद: मक्षिकां अवदत् यत "यथाहं कथयामि तथा कुरुतम्। मक्षिके प्रथंम त्वं मध्याह्मे तस्य गजस्य कर्णे शब्दं कुरु, येन स: नयने निमील्य स्थास्यति। तदा काष्ठकूट चञ्च्वा तस्य नयने स्फोटयिष्यति एवं स: गज: अन्ध: भविष्यति। तृषार्त: स: जलाशयं गमिष्यति। मार्गें महान गर्त: अस्ति तस्य अन्टिके मम शब्देन तं गर्त जलाशयं मत्वा स तस्मिन्नेव गर्ते पतिष्यति मरिष्यति च।
(घ) चटका काष्ठकूटं अवदत् य - "दुष्टेनैकेन गजेन मम सन्तति: नाशिता। तस्य गजस्य वधेनैव मम दु:खम् अपसरेत्।"